Mon. Jun 1st, 2026

Surya Mandala Ashtakam | सूर्यमण्डलाष्टकम्

नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे।

त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनारायणशङ्करात्मने॥1॥

यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं तीव्रमनादिरूपम्।

दारिद्र्यदुःखक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥2॥

यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम्।

तं देवदेवं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम्॥3॥

यन्मण्डलं ज्ञानघनं त्वगम्यंत्रैलोक्यपूज्यं त्रिगुणात्मरूपम्।

समस्ततेजोमयदिव्यरूपंपुनातु मां तत्सवितुर्वरेण्यम्॥4॥

यन्मण्डलं गूढमतिप्रबोधंधर्मस्य वृद्धिं कुरुते जनानाम्।

यत्सर्वपापक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥5॥

यन्मण्डलं व्याधिविनाशदक्षंयदृग्यजुः सामसु संप्रगीतम्।

प्रकाशितं येन च भूर्भुवः स्वःपुनातु मां तत्सवितुर्वरेण्यम्॥6॥

यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः।

यद्योगिनो योगजुषां च संघाःपुनातु मां तत्सवितुर्वरेण्यम्॥7॥

यन्मण्डलं सर्वजनेषु पूजितंज्योतिश्च कुर्यादिह मर्त्यलोके।

यत्कालकल्पक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम्॥8॥

यन्मण्डलं विश्वसृजांप्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम्।

यस्मिञ्जगत्संहरतेऽखिलचपुनातु मां तत्सवितुर्वरेण्यम्॥9॥

यन्मण्डलं सर्वगतस्य विष्णोरात्मापरं धाम विशुद्धतत्त्वम्।

सूक्ष्मान्तरैर्योगपथानुगम्यंपुनातु मां तत्सवितुर्वरेण्यम्॥10॥

यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः।

यन्मण्डलं वेदविदः स्मरन्तिपुनातु मां तत्सवितुर्वरेण्यम्॥11॥

यन्मण्डलं वेदविदोपगीतंयद्योगिनां योगपथानुगम्यम्।

तत्सर्ववेदं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम्॥12॥

मण्डलाष्टतयं पुण्यंयः पठेत्सततं नरः।

सर्वपापविशुद्धात्मासूर्यलोके महीयते॥13॥

यह भी पढ़ें :

सूर्य भगवान जी की आरती (Surya Bhagvan Ji ki Aarti)

Surya Ashtakam | सूर्याष्टकम्

Surya Mandala Ashtakam | सूर्यमण्डलाष्टकम्

Gayatri Mantra (गायत्री मंत्र)

Narasimha Gayatri Mantra(नरसिम्हा गायत्री मंत्र)

Saraswati Mantras (सरस्वती मंत्र)

Agni Gayatri Mantra (अग्नि गायत्री मंत्र )

शिव मृत्युञ्जय स्तोत्रम् (Shiva Mrityunjaya Stotram)

क्या कहती है wikipedia सूर्य देव के बारे में

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted
0
Would love your thoughts, please comment.x
()
x