Mon. Oct 13th, 2025

Sri vishnu ashtottara sata naama stotram | श्री विष्णु अष्टोत्तर शतनाम स्तोत्रम्

अष्टोत्तरशतं नाम्नां विष्णोरतुलतेजसः ।
यस्य श्रवणमात्रेण नरो नारायणो भवेत् ॥ 1 ॥

विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपिः । [वृषापतिः]
दामोदरो दीनबन्धुरादिदेवोऽदितेस्तुतः ॥ 2 ॥

पुण्डरीकः परानन्दः परमात्मा परात्परः ।
परशुधारी विश्वात्मा कृष्णः कलिमलापहा ॥ 3 ॥

कौस्तुभोद्भासितोरस्को नरो नारायणो हरिः ।
हरो हरप्रियः स्वामी वैकुण्ठो विश्वतोमुखः ॥ 4 ॥

हृषीकेशोऽप्रमेयात्मा वराहो धरणीधरः ।
वामनो वेदवक्ता च वासुदेवः सनातनः ॥ 5 ॥

रामो विरामो विरजो रावणारी रमापतिः ।
वैकुण्ठवासी वसुमान् धनदो धरणीधरः ॥ 6 ॥

धर्मेशो धरणीनाथो ध्येयो धर्मभृतांवरः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 7 ॥

सर्वगः सर्ववित्सर्वः शरण्यः साधुवल्लभः । [सर्वदः]
कौसल्यानन्दनः श्रीमान् राक्षसःकुलनाशकः ॥ 8 ॥

जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा ।
जानकीवल्लभो देवो जयरूपो जलेश्वरः ॥ 9 ॥

क्षीराब्धिवासी क्षीराब्धितनयावल्लभस्तथा ।
शेषशायी पन्नगारिवाहनो विष्टरश्रवः ॥ 10 ॥

माधवो मथुरानाथो मुकुन्दो मोहनाशनः ।
दैत्यारिः पुण्डरीकाक्षो ह्यच्युतो मधुसूदनः ॥ 11 ॥

सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सलः ।
नित्यो निरामयश्शुद्धो वरदेवो जगत्प्रभुः ॥ 12 ॥ [नरदेवो]

हयग्रीवो जितरिपुरुपेन्द्रो रुक्मिणीपतिः ।
सर्वदेवमयः श्रीशः सर्वाधारः सनातनः ॥ 13 ॥

सौम्यः सौम्यप्रदः स्रष्टा विष्वक्सेनो जनार्दनः ।
यशोदातनयो योगी योगशास्त्रपरायणः ॥ 14 ॥

रुद्रात्मको रुद्रमूर्तिः राघवो मधुसूधनः । [रुद्रसूदनः]
इति ते कथितं दिव्यं नाम्नामष्टोत्तरं शतम् ॥ 15 ॥

सर्वपापहरं पुण्यं दिव्योरतुलतेजसः ।
दुःखदारिद्र्यदौर्भाग्यनाशनं सुखवर्धनम् ॥ 16 ॥

सर्वसम्पत्करं सौम्यं महापातकनाशनम् ।
प्रातरुत्थाय विपेन्द्र पठेदेकाग्रमानसः ॥ 17 ॥

तस्य नश्यन्ति विपदां राशयः सिद्धिमाप्नुयात् ॥ 18 ॥

इति श्री विष्णोः अष्टोत्तरशतनाम स्तोत्रम् ॥

यह भी पढ़ें :

Sri vishnu ashtottara sata namavali | श्री विष्णु अष्टोत्तर शत नामावलि

Vasudeva stotram | वासुदेव स्तोत्रम्

Sree vishnu sahasra namavali | श्री विष्णु सहस्र नामावलि

सुन्दरकाण्ड (Sundarkand) 

बजरंग वाण (Bajrang Baan)

हनुमान चालीसा (Hanuman Chalisa)

Lakshmi nrusimha karavalamba stotram | लक्ष्मी नृसिंह करावलम्ब स्तोत्रम्

Sri rama hrudayam | श्री राम हृदयम्

Narayana Stotram | नारायण स्तोत्रम्

Sri Lakshmi narayana hrudaya stotram | श्री लक्ष्मी नारायण हृदय स्तोत्रम्

Sree purushottama sahasra nama stotram | श्री पुरुषोत्तम सहस्र नाम स्तोत्रम्

क्या कहती है Wikipedia भगवान विष्णु के बारे में

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x