गङ्गातरङ्गरमणीयजटाकलापंगौरीनिरन्तरविभूषितवामभागम्
नारायणप्रियमनङ्गमदापहारंवाराणसीपुरपतिं भज विश्वनाथम्॥1॥
वाचामगोचरमनेकगुणस्वरूपंवागीशविष्णुसुरसेवितपादपीठम्।
वामेन विग्रहवरेण कलत्रवन्तंवाराणसीपुरपतिं भज विश्वनाथम्॥2॥
भूताधिपं भुजगभूषणभूषिताङ्गंव्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।
पाशाङ्कुशाभयवरप्रदशूलपाणिंवाराणसीपुरपतिं भज विश्वनाथम्॥3॥
शीतांशुशोभितकिरीटविराजमानंभालेक्षणानलविशोषितपञ्चबाणम्।
नागाधिपारचितभासुरकर्णपूरंवाराणसीपुरपतिं भज विश्वनाथम्॥4॥
पञ्चाननं दुरितमत्तमतङ्गजानांनागान्तकं दनुजपुङ्गवपन्नगानाम्।
दावानलं मरणशोकजराटवीनांवाराणसीपुरपतिं भज विश्वनाथम्॥5॥
तेजोमयं सगुणनिर्गुणमद्वितीय-मानन्दकन्दमपराजितमप्रमेयम्।
नागात्मकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं भज विश्वनाथम्॥6॥
रागादिदोषरहितं स्वजनानुरागंवैराग्यशान्तिनिलयं गिरिजासहायम्
माधुर्यधैर्यसुभगं गरलाभिरामंवाराणसीपुरपतिं भज विश्वनाथम्॥7॥
आशां विहाय परिहृत्य परस्य निन्दांपापे रतिं च सुनिवार्य मनः समाधौ।
आदाय हृत्कमलमध्यगतं परेशंवाराणसीपुरपतिं भज विश्वनाथम्॥8॥
वाराणसीपुरपतेः स्तवनं शिवस्यव्याख्यातमष्टकमिदं पठते मनुष्यः।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिंसम्प्राप्य देहविलये लभते च मोक्षम्॥9॥
विश्वनाथाष्टकमिदं यःपठेच्छिवसन्निधौ।
शिवलोकमवाप्नोतिशिवेन सह मोदते॥10॥