अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचन्द्रं भजे॥1॥
अच्युतं केशवं सत्यभामाधवंमाधवं श्रीधरं राधिकाराधितम्।
इंदिरामन्दिरं चेतसा सुन्दरंदेवकीनन्दनं नन्दजं संदधे॥2॥
विष्णवे जिष्णवे शङ्खिने चक्रिणेरूक्मिणीरागिणे जानकीजानये।
वल्लवीवल्लभायार्चितायात्मनेकंसविध्वंसिने वंशिने ते नम:॥3॥
कृष्ण गोविन्दहे राम नारायणश्रीपते वासुदेवाजित श्रीनिधे।
अच्युतानन्त हे माधवाधोक्षजद्वारकानायक द्रौपदीरक्षक॥4॥
राक्षसक्षोभित: सीतया शोभितोदण्डकारण्यभूपुण्यताकारण:।
लक्ष्मणेनान्वितो वानरै: सेवितोऽगस्त्य-सम्पूजितो राघव: पातु माम्॥5॥
धेनुकारिष्टकानिष्टकृदद्वेषिहाकेशिहा कंसह्रद्वंशिकावादक:।
पूतनाकोपक: सूरजाखेलनोबालगोपालक: पातु मां सर्वदा॥6॥
विद्युदुद्योतवत्प्रस्फुरद्वाससंप्रावृडम्भोदवत्प्रोल्लसद्विग्रहम्।
वन्यया मालया शोभितोर:स्थलंलोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥7॥
कुञ्चितैः कुन्तलैर्भ्राजमानाननंरत्नमौलिं लसत्कुण्डलं गण्डयो:।
हारकेयूरकं कङ्कणप्रोज्ज्वलंकिङ्किणीमञ्जुलं श्यामलं तं भजे॥8॥
अच्युतस्याष्टकं य: पठेदिष्टदंप्रेमत: प्रत्यहं पूरुष: सस्पृहम्।
वृत्तत: सुन्दरं कर्तृविश्वम्भरस्तस्यवश्यो हरिर्जायते सत्वरम्॥9॥