ध्यानम् –
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥
अथ स्तोत्रम् –
देवताकार्यसिद्ध्यर्थं सभास्तम्भसमुद्भवम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 1 ॥
लक्ष्म्यालिङ्गित वामाङ्कं भक्तानां वरदायकम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 2 ॥
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 3 ॥
स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 4 ॥
सिंहनादेन महता दिग्विदिग्भयनाशनम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 5 ॥
प्रह्लादवरद श्रीशं दैत्येश्वरविदारणम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 6 ॥
क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 7 ॥
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम् ।
श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 8 ॥
इत्थं यः पठते नित्यं ऋणमोचन सिद्धये ।
अनृणो जायते शीघ्रं धनं विपुलमाप्नुयात् ॥ 9 ॥
सर्वसिद्धिप्रदं नृणां सर्वैश्वर्यप्रदायकम् ।
तस्मात् सर्वप्रयत्नेन पठेत् स्तोत्रमिदं सदा ॥ 10 ॥
इति श्रीनृसिंहपुराणे ऋणमोचन श्री नृसिंह स्तोत्रम् ।
यह भी पढ़ें :
गोपाल अष्टोत्तर शत नामावलिः (Gopala ashtottara sata namavali)
श्री वेङ्कटेश्वर प्रपत्ति (Sri venkateswara prapatti)
बाल मुकुन्दाष्टकम् (Bala Mukundashtakam)
हनुमान चालीसा (Hanuman Chalisa)
श्री वेङ्कटेश्वर वज्र कवच स्तोत्रम् (Sri venkateswara vajra kavacha stotram)
श्री विष्णु पञ्जर स्तोत्रम् (Sri vishnu panjara stotram)
दामोदर अष्टकं (Damodara Ashtakam)
श्री विष्णु सहस्र नाम स्तोत्रम् (Sree vishnu sahasra nama stotram)
गोकुल अष्टकं (Gokula ashtakam)
क्या कहती है Wikipedia भगवान विष्णु के बारे में